Kendra Prathana

जय जय परमात्मन् संस्मरामो वयं त्वां निजपरमहितार्थं कर्मयोगैकनिष्ठा: । इह जगति सदा नस्त्यागसेवाऽऽत्मबोधै: भवतु विहतविघ्ना ध्येयमार्गानुयात्रा ॥१॥ वयं सुपुत्रा अमृतस्य नूनं तवैव कार्यार्थमिहोपजाता: । निष्कामबुद्धयाऽऽर्तविपन्नसेवा विभो! तवाराधनमस्मदीयम् ॥२॥ प्रभो! देहि देहे बलं धैर्यमन्त: सदाचारमादर्शभूतं विचारम् । यदस्माभिरङ्गीकृतं पुण्यकार्यं तवैवाशिषा पूर्णतां तत्प्रयातु ॥३॥ जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् । इत्येषा प्रार्थनाऽस्माकं भगवन् परिपूर्यताम् ॥४॥ ॐ शान्ति: शान्ति: शान्ति: ॥

No comments:

Post a Comment